वांछित मन्त्र चुनें
आर्चिक को चुनें

द्वि꣢꣫र्यं पञ्च꣣ स्व꣡य꣢शस꣣ꣳ स꣡खा꣢यो꣣ अ꣡द्रि꣢सꣳहतम् । प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्यं꣢ प्रस्ना꣣प꣡य꣢न्त ऊ꣣र्म꣡यः꣢ ॥१३३०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

द्विर्यं पञ्च स्वयशसꣳ सखायो अद्रिसꣳहतम् । प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ॥१३३०॥

मन्त्र उच्चारण
पद पाठ

द्विः꣢ । यम् । प꣡ञ्च꣢꣯ । स्व꣡य꣢꣯शसम् । स्व । य꣣शसम् । स꣡खा꣢꣯यः । स । खा꣣यः । अ꣡द्रि꣢सꣳहतम् । अ꣡द्रि꣢꣯ । स꣣ꣳहतम् । प्रिय꣣म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । प्र꣣स्नाप꣡य꣢न्ते । प्र꣣ । स्नाप꣡य꣢न्ते । ऊ꣣र्म꣡यः꣢ ॥१३३०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1330 | (कौथोम) 5 » 2 » 18 » 2 | (रानायाणीय) 10 » 11 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर गुरु-शिष्य का विषय है।

पदार्थान्वयभाषाः -

(स्वयशसम्) अपनी कीर्ति से युक्त, (अद्रिसंहतम्) पर्वत के समान दृढ अङ्गोंवाले, (इन्द्रस्य प्रियम्) कुलपति आचार्य के प्रिय, (काम्यम्) अन्यों से भी चाहे जानेवाले (यम्) जिस विद्यार्थी को (द्विः पञ्च) दो पंजे अर्थात् दस (सखायः) सहयोगी विद्वान् गुरु लोग (ऊर्मयः) जल की तरङ्गों के समान होकर (प्र स्नापयन्ते) ज्ञान-नदी में स्नान कराते हैं, वह प्रशस्त होता है ॥२॥ यहाँ ‘ऊर्मयः’ में लुप्तोपमालङ्कार है ॥२॥

भावार्थभाषाः -

चार वेद और छह वेदाङ्ग ये दस विद्याएँ हैं। प्रत्येक विद्या के लिए एक-एक गुरु हो तो दस गुरु हो जाते हैं। वेदाङ्गों में शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द और ज्योतिष ये छह विद्याएँ ग्रहण करनी चाहिएँ, उनके प्रतिपादक वर्तमान ग्रन्थ नहीं, क्योंकि मनुष्यप्रणीत उन उत्तरवर्ती ग्रन्थों का सङ्केत वेदों में नहीं हो सकता ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्गुरुशिष्यविषयमाह।

पदार्थान्वयभाषाः -

(स्वयशसम्) स्वकीयकीर्तिम्, (अद्रिसंहतम्) पर्वतवद् दृढाङ्गम्, (इन्द्रस्य प्रियम्) कुलपतेः वत्सलम्, (काम्यम्) अन्येषामपि अभिलषणीयम् (यम्) यं विद्यार्थिनम् (द्विः पञ्च) द्विवारं पञ्च, दशेत्यर्थः (सखायः) सहयोगिनो विद्वांसो गुरवः (ऊर्मयः) जलतरङ्गा इव भूत्वा (प्रस्नापयन्ते) ज्ञाननद्यां स्नानं कारयन्ति, स प्रशस्यो भवतीति वाक्यपूर्तिर्विधेया ॥२॥ ऊर्मय इवेति लुप्तोपमालङ्कारः ॥२॥

भावार्थभाषाः -

चत्वारो वेदाः षड्वेदाङ्गानि चेति दश विद्याः। उपवेदा उपाङ्गानि चात्रैवान्तर्भवन्ति। प्रतिविद्यमेकैको गुरुरिति दश गुरवो भवन्ति। वेदाङ्गैश्च शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षड् मूलविद्या ग्राह्या न तु तत्तत्प्रतिपादका वर्तमानग्रन्थाः, उत्तरवर्तिनां तेषां मनुष्यप्रणीतानां ग्रन्थानां वेदे सङ्केतासम्भवात् ॥२॥